मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३९, ऋक् ४

संहिता

ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ ।
श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ॥

पदपाठः

ना॒वाऽइ॑व । नः॒ । पा॒र॒य॒त॒म् । यु॒गाऽइ॑व । नभ्या॑ऽइव । नः॒ । उ॒प॒धी इ॒वेत्यु॑प॒धीऽइ॑व । प्र॒धी इ॒वेति॑ प्र॒धीऽइ॑व ।
श्वाना॑ऽइव । नः॒ । अरि॑षण्या । त॒नूना॑म् । खृग॑लाऽइव । वि॒ऽस्रसः॑ । पा॒त॒म् । अ॒स्मान् ॥

सायणभाष्यम्

हेअश्विनौ नावेव वानाविव सिन्धून् नोस्मान् दुर्गाणि पारयतम् युगाइव यथारथस्ययुगेन भ्याइव यथाच रथचक्रनाभिफलके उपधीइव यथतत्पार्श्वस्थे फलके प्रधीइव यथावाचक्रबाह्य वलयौ रथं पारयतः तथानोस्मान् दुर्गाणिपारयतं किंच श्वानाविव यथाश्वानौ बाधकेभ्योर क्षन्तौ तनोर्हिंसामपनयतः तथानोस्माकंतनूनामङ्गानामरिषण्यावहिंसकौभवतं खृगलाइव यथा तनुत्राणे तनुहिंसायारक्षतः तथाविस्रसः जरायाः अस्मान् युवां पातम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः