वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् ।
हस्ता॑विव त॒न्वे॒३॒॑ शम्भ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑ ॥
वाता॑ऽइव । अ॒जु॒र्या । न॒द्या॑ऽइव । री॒तिः । अ॒क्षी इ॒वेत्य॒क्षीऽइ॑व । चक्षु॑षा । आ । या॒त॒म् । अ॒र्वाक् ।
हस्तौ॑ऽइव । त॒न्वे॑ । शम्ऽभ॑विष्ठा । पादा॑ऽइव । नः॒ । न॒य॒त॒म् । वस्यः॑ । अच्छ॑ ॥
हे अश्विनौ वातेव वाताविव अजुर्या जरितुमशक्यौ नद्येव नद्याविव रीतिः व्यत्ययेनैक वचनं शीघ्रंगन्तारौयुवां अक्षीइव अक्षिणी इव चक्षुषादर्शनेन अर्वागस्मदभिमुखं आयातमाग च्छतं किंच हस्ताविव हस्तौइव पादेवपादाविव तन्वेशरीराय शंभविष्ठा सुखस्यभावयितृतमौ युवांनोस्मान् वस्यः वसीयः श्रेष्ठंधनं अच्छप्रतिनयतं प्रापयतम् ॥ ५ ॥