मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३९, ऋक् ६

संहिता

ओष्ठा॑विव॒ मध्वा॒स्ने वद॑न्ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः ।
नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥

पदपाठः

ओष्ठौ॑ऽइव । मधु॑ । आ॒स्ने । वद॑न्ता । स्तनौ॑ऽइव । पि॒प्य॒त॒म् । जी॒वसे॑ । नः॒ ।
नासा॑ऽइव । नः॒ । त॒न्वः॑ । र॒क्षि॒तारा॑ । कर्णौ॑ऽइव । सु॒ऽश्रुता॑ । भू॒त॒म् । अ॒स्मे इति॑ ॥

सायणभाष्यम्

हेअश्विनौ ओष्ठाविवआस्ने आस्याय मधु मधुररसवद्वचनं वदन्ता वदन्तौ स्तनाविव नः अस्मान् जीवसे जीवनायपिप्यतं प्याययतं किंच नासेव नासिकेइव नःअस्माकंतन्वःतनोः रक्षितारा रक्षितारौ भूतंभवतं अपिच कर्णाविव अस्मेअस्माकं सुश्रुतासुश्रवणेयुवांभूतंभवतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः