मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३९, ऋक् ७

संहिता

हस्ते॑व श॒क्तिम॒भि सं॑द॒दी न॒ः क्षामे॑व न॒ः सम॑जतं॒ रजां॑सि ।
इ॒मा गिरो॑ अश्विना युष्म॒यन्ती॒ः क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ॥

पदपाठः

हस्ता॑ऽइव । श॒क्तिम् । अ॒भि । स॒न्द॒दी इति॑ स॒म्ऽद॒दी । नः॒ । क्षामा॑ऽइव । नः॒ । सम् । अ॒ज॒त॒म् । रजां॑सि ।
इ॒माः । गिरः॑ । अ॒श्वि॒ना॒ । यु॒ष्म॒ऽयन्तीः॑ । क्ष्णोत्रे॑णऽइव । स्वऽधि॑तिम् । सम् । शि॒शी॒त॒म् ॥

सायणभाष्यम्

हेअश्विनौ हस्तेव हस्ताविव शक्तिंसमर्थ्यंनोस्माकं अभिसंददी आभिमुख्येनसम्यक् प्रयच्छन्तौ भवतं किंच क्षामइव रोदसीइव रजांसिस्थानानिउदकानिवा उदकंरजउच्यतइतियास्कः । नो- स्माकंसमजतं प्रेरयतं अपिच अश्विना हेअश्विनौ इमागिरः अस्माभिःकृताःस्तुतोः युष्मयन्तीः युवामिच्छन्तीः स्वधितिमसिं क्ष्णोत्रेणेव तेजनशाणवत् संशिशीतं सम्यक् तीक्ष्णीकुरुतम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः