मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ३९, ऋक् ८

संहिता

ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् ।
तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वर्ध॑नानि । ब्रह्म॑ । स्तोम॑म् । गृ॒त्स॒ऽम॒दासः॑ । अ॒क्र॒न् ।
तानि॑ । न॒रा॒ । जु॒जु॒षा॒णा । उप॑ । या॒त॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

अश्विना हेअश्विनौ वांयुवयोः एतानिवर्धनानिवृद्धिसाधनानिब्रह्मब्रह्माणि मन्त्रान् स्तोमं स्तो त्रंच गृत्समदासोगृत्समदाअक्रन् अकुर्वन् तानिब्रह्माणि नरानेतारौ जुजुषाणाभृशंप्रीयमाणौ युवांउपयातंउपगच्छतं किंच सुवीराः शोभनपुत्रावयं विदथेयज्ञेयुवां बृहद्वदेमप्रभूतंस्तुमः ॥ ८ ॥

सोमापूषणेतिषळृचमष्टमंसूक्तं गार्त्समदंत्रैष्टुभं सोमापूषदेवताकं तथाचानुक्रान्तं—सोमापूषणा षट् सोमापौष्णमन्त्योर्धर्चोप्यदितेरिति अवतुदेव्यदितिरित्यस्यार्धर्चस्यादितिर्देवता सोमापौष्णे पशौवपापुरोडाशहविषामाद्यास्तिस्रःक्रमेणानुवाक्याः उत्तरास्तिस्रोयाज्याः अग्नीषोमावितिखण्डे सूत्रितं—सोमापूषणाजननारयीणामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः