मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४०, ऋक् १

संहिता

सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः ।
जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥

पदपाठः

सोमा॑पूषणा । जन॑ना । र॒यी॒णाम् । जन॑ना । दि॒वः । जन॑ना । पृ॒थि॒व्याः ।
जा॒तौ । विश्व॑स्य । भुव॑नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥

सायणभाष्यम्

सोमापूषणा हे सोमापूषणौ युवांरयीणांधनानां जनना जनयितारौ दिवः द्युलोकस्यापि जनना जनयितारौ पृथिव्याः प्रथितायाश्च जनना जनयितारौभवतः किंच जातौजातमात्रावेव युवांविश्वस्यभुवनस्य कृत्स्नस्यजगतः गोपौ गोप्तारौ देवाअमृतस्यामरणस्यनाभिं हेतुमकृण्वन् अकार्षुः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः