मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४०, ऋक् २

संहिता

इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां॑सि गूहता॒मजु॑ष्टा ।
आ॒भ्यामिन्द्र॑ः प॒क्वमा॒मास्व॒न्तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥

पदपाठः

इ॒मौ । दे॒वौ । जाय॑मानौ । जु॒ष॒न्त॒ । इ॒मौ । तमां॑सि । गू॒ह॒ता॒म् । अजु॑ष्टा ।
आ॒भ्याम् । इन्द्रः॑ । प॒क्वम् । आ॒मासु॑ । अ॒न्तरिति॑ । सो॒मापू॒षऽभ्या॑म् । ज॒न॒त् । उ॒स्रिया॑सु ॥

सायणभाष्यम्

इमौ सोमापूषणौ देवौ द्योतमानौ जायमानौ उत्पन्नमात्रावेव जुषन्त सर्वेदेवाः अजुषन्त सेवितवन्तइतियावत् किंच इमौ सोमापूषणौ अजुष्टा आसेव्यानितमांसि गूहतांनाशयतः किंच आभ्यामेताभ्यां सोमापूषभ्यांसहइन्द्रः आमासुतरुणीषुउस्रियासुगोष्वन्तर्मध्येऊधःप्रदेशेपक्वं परि क्वंपयोजनत् जनयति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः