मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४०, ऋक् ३

संहिता

सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् ।
वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥

पदपाठः

सोमा॑पूषणा । रज॑सः । वि॒ऽमान॑म् । स॒प्तऽच॑क्रम् । रथ॑म् । अवि॑श्वऽमिन्वम् ।
वि॒षु॒ऽवृत॑म् । मन॑सा । यु॒ज्यमा॑नम् । तम् । जि॒न्व॒थः॒ । वृ॒ष॒णा॒ । पञ्च॑ऽरश्मिम् ॥

सायणभाष्यम्

वृषणा वृषणौ कामानांवर्षितारौ सोमापूषणा हेसोमापूषणौ रजसोलोकस्य लोकारजांस्यु च्यन्तइतियास्कः । विमानंपरिच्छेदकंसर्वमानमित्यर्थः सप्तचक्रं सप्तर्तुचक्रं त्रयोदशोमासः सप्त- मऋतुः अस्तित्रयोदशोमासइतिश्रुतेः । अविश्वमिन्वं विश्वस्यापरिच्छेद्यं विषुवृतं विष्वक् सर्वत्र परिवर्तमानं पञ्चरश्मिंपञ्चर्तुरश्मिं हेमन्तशिशिरयोः समासेनर्तवःपञ्च तथाचश्रूयते—द्वादशवैमा- साःपञ्चर्तवोहेमन्तशिशिरयोःसमासेनेति । मनसायुज्यमानं मनोमात्रेणयुज्यमानंतंप्रसिद्धंरथं जि- न्वथः अस्मान्प्रतिप्रेरयथः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः