मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४०, ऋक् ४

संहिता

दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे ।
ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥

पदपाठः

दि॒वि । अ॒न्यः । सद॑नम् । च॒क्रे । उ॒च्चा । पृ॒थि॒व्याम् । अ॒न्यः । अधि॑ । अ॒न्तरि॑क्षे ।
तौ । अ॒स्मभ्य॑म् । पु॒रु॒ऽवार॑म् । पु॒रु॒ऽक्षुम् । रा॒यः । पोष॑म् । वि । स्य॒ता॒म् । नाभि॑म् । अ॒स्मे इति॑ ॥

सायणभाष्यम्

अन्यः तयोरेकः पूषाउच्चाउच्चैः उच्छ्रितेदिविद्युलोकेसदनंस्थानंचक्रेचकार अन्यः अपरः सोमः पृथिव्यामोषषिरूपेणअध्यन्तरिक्षेचचन्द्ररूपेणसदनंचक्रे तौ सोमापूषणौयुवांपुरुवारं बहुभिर्वरणी यं पुरुक्षुं बहुकीर्तिंरायस्पोषंधनस्यपुष्टिं पश्वात्मकंधनमित्यर्थः तथाचब्राह्मणं—पशवोवैरायस्पोष इति । अस्मेअस्माकं नाभिंविश्वस्यभोगस्यहेतुभूतमस्मभ्यंविष्यतां विमुञ्चतांप्रयच्छतामित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः