मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४०, ऋक् ५

संहिता

विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति ।
सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वा॒ः पृत॑ना जयेम ॥

पदपाठः

विश्वा॑नि । अ॒न्यः । भुव॑ना । ज॒जान॑ । विश्व॑म् । अ॒न्यः । अ॒भि॒ऽचक्षा॑णः । ए॒ति॒ ।
सोमा॑पूषणौ । अव॑तम् । धिय॑म् । मे॒ । यु॒वाभ्या॑म् । विश्वाः॑ । पृत॑नाः । ज॒ये॒म॒ ॥

सायणभाष्यम्

हेसोमापूषणौ अन्यः युवयोरेकः सोमः विश्वानिभुवनाभुवनानिभूतानिजजान अजनयत् तथाच मन्त्रः—सोमः पवतेजनितामतीनामिति । अन्यःअपरः पूषादित्योविश्वमभिचक्षाणः अभि पश्यन्नेतिगच्छति तौयुवांसोमापूषणौमेधियंकर्म धीःशचीतिकर्मनामसुपाठात् अवतंरक्षतं किंच वयं युवाभ्यांहेतुभ्यां विश्वाः पृतनाः सर्वाः शत्रुसेनाः जयेमअभिभवेम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः