मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १

संहिता

वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।
नि॒युत्वा॒न्त्सोम॑पीतये ॥

पदपाठः

वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ ।
नि॒युत्वा॑न् । सोम॑ऽपीतये ॥

सायणभाष्यम्

हेवायो तेत्वदीयायेसहस्रिणः सहस्रसंख्याकारथासः रथाः तेभिस्तैर्नियुत्वान् नियुद्भिर्युक्त स्त्वं सोमपीतये सोमपानार्थमागह्यागच्छ नानारूपत्वात् वायोः सर्वाभिर्विभूतिभिः सहा- गमनं प्रार्थ्यतइतिभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः