मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् २

संहिता

नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते ।
गन्ता॑सि सुन्व॒तो गृ॒हम् ॥

पदपाठः

नि॒युत्वा॑न् । वा॒यो॒ इति॑ । आ । ग॒हि॒ । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ।
गन्ता॑ । अ॒सि॒ । सु॒न्व॒तः । गृ॒हम् ॥

सायणभाष्यम्

हेवायो नियुत्वान् नियुतोबाहनानिवायोः तैर्युक्तस्त्वं आगह्यगच्छ अयंशुक्रोदीप्यमानः सोमः तेतुभ्यं अयामिनियतोगृहीतआसीत् यमेःकर्मणिलुङ् सुन्वतः सोमाभिषवं कुर्वतोयजमानस्यगृहं गन्तासियाताभवसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः