मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् ३

संहिता

शु॒क्रस्या॒द्य गवा॑शिर॒ इन्द्र॑वायू नि॒युत्व॑तः ।
आ या॑तं॒ पिब॑तं नरा ॥

पदपाठः

शु॒क्रस्य॑ । अ॒द्य । गोऽआ॑शिरः । इन्द्र॑वायू॒ इति॑ । नि॒युत्व॑तः ।
आ । या॒त॒म् । पिब॑तम् । न॒रा॒ ॥

सायणभाष्यम्

हेनरानेतारौ हेइन्द्रवायू अद्यास्मिन्नहनिनियुत्वतः विभक्तिव्यत्ययः नियुत्वन्तौ युवां गवा शिरः गव्यंपयः आशीराश्रयणसाधनंयस्य तस्यशुक्रस्यदीप्तस्य सोमस्य पानार्थं आयातं आगच्छ तं आगत्यसोमंपिबतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः