मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् ४

संहिता

अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा ।
ममेदि॒ह श्रु॑तं॒ हव॑म् ॥

पदपाठः

अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ ।
मम॑ । इत् । इ॒ह । श्रु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

मित्रावरुणा हेमित्रावरुणौ वांयुवाभ्यां अयंसोमः सुतः अभिषुतः ऋतावृधा हेसत्यस्य यज्ञस्यवावर्धकौ ममेत् ममैवइहास्मिन्यज्ञे हवमाह्वानं श्रुतं श्रृणुतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः