मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् ५

संहिता

राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे ।
स॒हस्र॑स्थूण आसाते ॥

पदपाठः

राजा॑नौ । अन॑भिऽद्रुहा । ध्रु॒वे । सद॑सि । उ॒त्ऽत॒मे ।
स॒हस्र॑ऽस्थूणे । आ॒सा॒ते॒ इति॑ ॥

सायणभाष्यम्

राजानौईश्वरौदीप्यमानौवा अनभिद्रुहा अनभिद्रोग्धारौयौ मित्रावरुणौध्रुवेस्थिरे उत्तमे उत्कृष्टे सहस्रस्थूणे बहुस्तंभे सदसिस्थाने आसाते उपविशतः तावागच्छतमितिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः