मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् ६

संहिता

ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑ ।
सचे॑ते॒ अन॑वह्वरम् ॥

पदपाठः

ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । आ॒दि॒त्या । दानु॑नः । पती॒ इति॑ ।
सचे॑ते॒ इति॑ । अन॑वऽह्वरम् ॥

सायणभाष्यम्

सम्राजौ आज्ञयैवसर्वेषांशास्तारौघृतासुती घृतान्नौ तद्वांमहित्वंघृतान्नावस्त्वितिमन्त्रान्तरात् आदित्या अदितेःपुत्रौ दानुनस्पती दानुनोदानस्य देवस्यवाधनस्यपतीस्वामिनौ ता तौ मित्रावरु णौ अनह्वरमकुटिलं यजमानं सचेते सेवेते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः