मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् ७

संहिता

गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना ।
व॒र्ती रु॑द्रा नृ॒पाय्य॑म् ॥

पदपाठः

गोऽम॑त् । ऊं॒ इति॑ । सु । ना॒स॒त्या॒ । अश्व॑ऽवत् । या॒त॒म् । अ॒श्वि॒ना॒ ।
व॒र्तिः । रु॒द्रा॒ । नृ॒ऽपाय्य॑म् ॥

सायणभाष्यम्

अश्विनाहेअश्विनौ हेनासत्या अनृतभाषाणरहितौ हेरुद्रा रोरूयमाणौ द्रवन्तौयुवांवर्तिर्मार्गः तेनमार्गेणरथेनवा न्रुपाय्यंनृभिःनेतृभिर्देवैः पातव्यं सोमंगोमत् गोमद्यथाभवति तथा अश्ववत् अश्ववच्चयथाभवति तथा यातंगच्छतं ऊष्वितिपूरणौ ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः