मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् ८

संहिता

न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू ।
दु॒ःशंसो॒ मर्त्यो॑ रि॒पुः ॥

पदपाठः

न । यत् । परः॑ । न । अन्त॑रः । आ॒ऽद॒धर्ष॑त् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।
दुः॒ऽशंसः॑ । मर्त्यः॑ । रि॒पुः ॥

सायणभाष्यम्

वृषण्वसू हेधनस्यवर्षितारौ यद्धनंपरोदूरस्थोदुःशंसः शंसनायोग्योर्त्योरिपुः यन्नादधर्षत् नापहरेत् तथोक्तलक्षणेतरः अन्तरः समीपवर्ती मर्त्योरिपुरपियन्नादधर्षत् तद्धनमावोह्ळमिति शेषः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः