मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् ९

संहिता

ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् ।
धिष्ण्या॑ वरिवो॒विद॑म् ॥

पदपाठः

ता । नः॒ । आ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ । र॒यिम् । पि॒शङ्ग॑ऽसन्दृशम् ।
धिष्ण्या॑ । व॒रि॒वः॒ऽविद॑म् ॥

सायणभाष्यम्

हेधिष्णया धिषणार्हौ अश्विना हेअश्विनौ ता तौ युवांपिशंगसदृशं नानारूपं वरिवोविदं धनस्यलंभकंरयिंपशुंनोस्मभ्यं आवोह्ळमावहतम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः