मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १०

संहिता

इन्द्रो॑ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत् ।
स हि स्थि॒रो विच॑र्षणिः ॥

पदपाठः

इन्द्रः॑ । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चु॒च्य॒व॒त् ।
सः । हि । स्थि॒रः । विऽच॑र्षणिः ॥

सायणभाष्यम्

इन्द्रः महत् अधिकं अभीषत् अभिभवत् भयंभयकारणं अपचुच्यवत् अपच्यावयेत् हिय स्मात्कारणात् सस्थिरः केनापिचालयितुमशक्यः विचर्षणिर्विश्वस्यद्रष्टा अङ्गेति पूरणम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः