मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् ११

संहिता

इन्द्र॑श्च मृ॒ळया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् ।
भ॒द्रं भ॑वाति नः पु॒रः ॥

पदपाठः

इन्द्रः॑ । च॒ । मृ॒ळया॑ति । नः॒ । न । नः॒ । प॒श्चात् । अ॒घम् । न॒श॒त् ।
भ॒द्रम् । भ॒वा॒ति॒ । नः॒ । पु॒रः ॥

सायणभाष्यम्

इन्द्रश्च परमैश्वर्यवनिन्द्रश्चेत् नोस्मान् मृळयातिसुखयेत् पश्चात्पृष्ठतः नोस्मान् अघंदुरितं ननशत् नप्राप्नोतिनोस्माकंपुरः पुरस्तात् भद्रंकल्याणंचभवाति भवति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः