मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १२

संहिता

इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।
जेता॒ शत्रू॒न्विच॑र्षणिः ॥

पदपाठः

इन्द्रः॑ । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । क॒र॒त् ।
जेता॑ । शत्रू॑न् । विऽच॑र्षणिः ॥

सायणभाष्यम्

विचर्षणिः विविधंद्रष्टा जेता शत्रून् असुरान् जेता तृन्नन्तत्वात् षष्ठ्यभावः इन्द्रः षरमैश्वर्य वान् सर्वाभ्यआशाभ्योदिग्भ्योस्माकंअभयंकरत् करोतु परीतिपञ्चमीद्योतकः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः