मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १४

संहिता

ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः ।
ए॒तं पि॑बत॒ काम्य॑म् ॥

पदपाठः

ती॒व्रः । वः॒ । मधु॑ऽमान् । अ॒यम् । शु॒नऽहो॑त्रेषु । म॒त्स॒रः ।
ए॒तम् । पि॒ब॒त॒ । काम्य॑म् ॥

सायणभाष्यम्

हेविश्वेदेवाः तीव्रः तीव्रमदः मधुमान् मधुररसवान् मत्सरोमदकरः सोमोयंवोयुष्मदर्थं शुनहोत्रेषुगृत्समदेष्वस्मासुस्थितः काम्यंकमनीयमेतंसोमंपिबत ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः