मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १६

संहिता

अम्बि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति ।
अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥

पदपाठः

अम्बि॑ऽतमे । नदी॑ऽतमे । देवि॑ऽतमे । सर॑स्वति ।
अ॒प्र॒श॒स्ताःऽइ॑व । स्म॒सि॒ । प्रऽश॑स्तिम् । अ॒म्ब॒ । नः॒ । कृ॒धि॒ ॥

सायणभाष्यम्

अंबितमेमातॄणांश्रेष्ठे नदीतमेनदीनांश्रेष्ठे देवितमेदेवीनांश्रेष्ठे हेसरस्वति अप्रशस्ताइव धनाभा वादसमृद्धाइव वयंस्मसिभवामः अंब हेमातः सरस्वति नोस्मभ्यंप्रशस्तिंधनसमृद्धिंकृधि कुरुप्रय च्छेत्यर्थः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०