मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १८

संहिता

इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति ।
या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥

पदपाठः

इ॒मा । ब्रह्म॑ । स॒र॒स्व॒ति॒ । जु॒षस्व॑ । वा॒जि॒नी॒ऽव॒ति॒ ।
या । ते॒ । मन्म॑ । गृ॒त्स॒ऽम॒दाः । ऋ॒त॒ऽव॒रि॒ । प्रि॒या । दे॒वेषु॑ । जुह्व॑ति ॥

सायणभाष्यम्

वाजिनीवति अन्नवति ऋतावरि उदकवति हेसरस्वति इमाइमानिब्रह्मब्रह्मणि हवींषि जुषस्व स्वीकुरु या यानि मन्म मननीयानि देवेषुप्रिया देवानांमध्येतुभ्यंप्रियाणि देवेषुप्रियाणि वा तेत्वदर्थंगृत्समदाजुह्वति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०