मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् १९

संहिता

प्रेतां॑ य॒ज्ञस्य॑ श॒म्भुवा॑ यु॒वामिदा वृ॑णीमहे ।
अ॒ग्निं च॑ हव्य॒वाह॑नम् ॥

पदपाठः

प्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ ।
अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥

सायणभाष्यम्

यज्ञस्ययागस्यशंभुवासुखसंपादकेहविर्धानेअनसी तद्रूपेद्यावापृथिव्यौवा प्रेतांउत्तरवेदेः पश्चि मभागंप्रतिगच्छतां अथप्रत्यक्षकृतः युवामित् युवामेवआवृणीमहे प्रार्थयामहे हव्यवाहनमग्निंच आवृणीमहे अग्निरत्रनिपातभागिति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०