मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् २०

संहिता

द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश॑म् ।
य॒ज्ञं दे॒वेषु॑ यच्छताम् ॥

पदपाठः

द्यावा॑ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ।
य॒ज्ञम् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥

सायणभाष्यम्

द्यावाद्यौश्चपृथिवीचउभे सिध्रंस्वर्गादेःसाधकं दिविस्पृशं देवान् गच्छन्तं अद्यास्मिन्नहनि अस्माकं इमंयज्ञंदेवेषुयच्छतांनियच्छताम् ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०