मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४१, ऋक् २१

संहिता

आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दन्तु य॒ज्ञिया॑ः ।
इ॒हाद्य सोम॑पीतये ॥

पदपाठः

आ । वा॒म् । उ॒पऽस्थ॑म् । अ॒द्रु॒हा॒ । दे॒वाः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ।
इ॒ह । अ॒द्य । सोम॑ऽपीतये ॥

सायणभाष्यम्

अद्रुहाद्रोहवर्जितेहेहविर्धाने तद्रूपेद्यावापृथिव्यौवांयुवयोरुपस्थंसमीपं यज्ञियायज्ञार्हा देवाः इहयज्ञे अद्यास्मिन्नहनिसोमपीतये सोमपानायआसीदन्तु ॥ २१ ॥

कनिक्रददितितृचंदशमंसूक्तं अत्रिवमनुक्रमणिका—कनिक्रदत्तृचमिति मण्डलद्रष्टागृत्समदोस्य ऋषिः त्रिष्टुछन्दः कपिञ्चलरूपीन्द्रोदेवता वयसाममनोज्ञांवाचंश्रुत्वैतत्सूक्तंजपेत् सूत्रितंच—वय साममनोज्ञावाचः श्रुत्वाकनिक्रदज्जनुषंप्रब्रुवाणइतिसूक्तेजपेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०