मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४२, ऋक् २

संहिता

मा त्वा॑ श्ये॒न उद्व॑धी॒न्मा सु॑प॒र्णो मा त्वा॑ विद॒दिषु॑मान्वी॒रो अस्ता॑ ।
पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत्सुम॒ङ्गलो॑ भद्रवा॒दी व॑दे॒ह ॥

पदपाठः

मा । त्वा॒ । श्ये॒नः । उत् । व॒धी॒त् । मा । सु॒ऽप॒र्णः । मा । त्वा॒ । वि॒द॒त् । इषु॑ऽमान् । वी॒रः । अस्ता॑ ।
पित्र्या॑म् । अनु॑ । प्र॒ऽदिश॑म् । कनि॑क्रदत् । सु॒ऽम॒ङ्गलः॑ । भ॒द्र॒ऽवा॒दी । व॒द॒ । इ॒ह ॥

सायणभाष्यम्

हेशकुने त्वात्वां श्येनः प्रबलः पक्षिविशेषो मावधीत् माहिंसीत् उतापिच सुपर्णः गरुडः पक्षिविशेषोमावधीत् माहिंसीत् तथाइषुमान् बाणवान् वीरः अस्ता शराणांक्षेप्ता धन्वीत्वा त्वां माविदत् माप्रापत् किञ्च पित्र्यांप्रदिशंदक्षिणांदिशमनुदक्षिणस्यांदिशीत्यर्थः कनिक्रदत् पुनःपुनः शब्दंकुर्वन् सुमङ्गलः कल्यणमङ्गलः भद्रवादीशोभनवादीसन् इहास्मद्विषये वद मङ्गलंसूचय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११