मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४२, ऋक् ३

संहिता

अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां॑ सुम॒ङ्गलो॑ भद्रवा॒दी श॑कुन्ते ।
मा नः॑ स्ते॒न ई॑शत॒ माघशं॑सो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

अव॑ । क्र॒न्द॒ । द॒क्षि॒ण॒तः । गृ॒हाणा॑म् । सु॒ऽम॒ङ्गलः॑ । भ॒द्र॒ऽवा॒दी । श॒कु॒न्ते॒ ।
मा । नः॒ । स्ते॒नः । ई॒श॒त॒ । मा । अ॒घऽशं॑सः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

शकुन्ते हेकपिञ्चल त्वंसुमङ्गलोभद्रवादीचसन् गृहाणांदक्षिणतः दक्षिणस्यांदिशिअवक्रन्द शब्दंकुरु दक्षिणतः शब्दायमानःशकुन्तोमङ्गलसूचकोहि नोस्माकं स्तेनस्तस्करोमाईशतमाईशिष्ट अघशंसः अनर्थकानांशंसकोपिमेशिष्ट उत्तमःपादोव्याख्यातचरः ॥ ३ ॥

प्रदक्षिणिदितितृचमेकादशंसूक्तंगार्त्समदंजागतं तथाचानुक्रान्तं—प्रदक्षिणिज्जागतंमध्येतिशक्वर्य ष्टिर्वेति द्वितीयातिशक्वरी अष्टिर्वा इतरेजगत्यौ कपिञ्चलरूपीन्द्रोदेवता वयसाममनोज्ञांवाचंश्रु- त्वाप्रदक्षिणिदितिसूक्तंजपेत् सूत्रंप्रागेवोदाह्रुतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११