मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४३, ऋक् १

संहिता

प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः ।
उ॒भे वाचौ॑ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ॥

पदपाठः

प्र॒ऽद॒क्षि॒णित् । अ॒भि । गृ॒ण॒न्ति॒ । का॒रवः॑ । वयः॑ । वद॑न्तः । ऋ॒तु॒ऽथा । श॒कुन्त॑यः ।
उ॒भे इति॑ । वाचौ॑ । व॒द॒ति॒ । सा॒म॒ऽगाःऽइ॑व । गा॒य॒त्रम् । च॒ । त्रैस्तु॑भम् । च॒ । अनु॑ । रा॒ज॒ति॒ ॥

सायणभाष्यम्

शकुंतयः कपिञ्चलाः ऋतुथा कालेकालेवयोन्नंवदन्तःसूचयन्तः कारवः स्तोतारइव प्रदक्षि णित् प्रदक्षिणंअभिगृणन्तिअभिवदन्तु बहुवचनंपूजार्थं किञ्च उभेवाचौ गानंच श्रौतंच सामगा इव गयत्रंच त्रैष्टुभंच सामनीवशकुन्तिर्वदति अनुराजतिच श्रृण्वतोनुरक्तान् करोतीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२