मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ४३, ऋक् २

संहिता

उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि ।
वृषे॑व वा॒जी शिशु॑मतीर॒पीत्या॑ स॒र्वतो॑ नः शकुने भ॒द्रमा व॑द वि॒श्वतो॑ नः शकुने॒ पुण्य॒मा व॑द ॥

पदपाठः

उ॒द्गा॒ताऽइ॑व । श॒कु॒ने॒ । साम॑ । गा॒य॒सि॒ । ब्र॒ह्म॒पु॒त्रःऽइ॑व । सव॑नेषु । शं॒स॒सि॒ ।
वृषा॑ऽइव । वा॒जी । शिशु॑ऽमतीः । अ॒पि॒ऽइत्य॑ । स॒र्वतः॑ । नः॒ । श॒कु॒ने॒ । भ॒द्रम् । आ । व॒द॒ । वि॒श्वतः॑ । नः॒ । श॒कु॒ने॒ । पुण्य॑म् । आ । व॒द॒ ॥

सायणभाष्यम्

शकुने हेकपिञ्चल उद्गातेवसाय यथोद्गातसामगायति तथात्वंगायसि गानस्वनंकरोषि ब्रह्म पुत्रइव यथाब्राह्मणाच्छंसीसवनेषुशस्त्राणिशंसति तथात्वंकालेषुशंससि श्रौतस्वरंकरोषि वृषेववा जी सेचनसमर्थोश्वः शिशुमतीर्वडवाअपीत्यअभिगत्ययथाशब्दंकरोति तथात्वमपिवद शिष्टं स्पष्टम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२