आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी॑नः सुम॒तिं चि॑किद्धि नः ।
यदु॒त्पत॒न्वद॑सि कर्क॒रिर्य॑था बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥
आ॒ऽवद॑न् । त्वम् । श॒कु॒ने॒ । भ॒द्रम् । आ । व॒द॒ । तू॒ष्णीम् । आसी॑नः । सु॒ऽम॒तिम् । चि॒कि॒द्धि॒ । नः॒ ।
यत् । उ॒त्ऽपत॑न् । वद॑सि । क॒र्क॒रिः । य॒था॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
श्कुनेहेकपिञ्चल आवदन् शब्दंकुर्वन् त्वंभद्रमावद मङ्गलंवद तूष्णीमासीनः तूष्णींतिष्ठन्न पिनोस्माकंसुमतिंचिकिद्धिबुद्भ्यस्वयद्यदाउत्पतन् वदसितदा कर्करिर्यथाकर्करिर्वदति कर्करिर्वाद्य विशॆषः अन्यद्भ्याख्यातचरम् ॥ ३ ॥
॥ अथतृतीयंमण्डलम् ॥
वैश्वामित्रेतृतीयेमण्डलेपञ्चानुवाकाः तत्रप्रथमेनुवाके द्वादशसूक्तानि तत्रसोमस्यमेतित्रयो- विंशत्यृचंप्रथमंसूक्तं तथाचानुक्रान्तं—सोमस्यत्र्यधिकेति अस्यमण्डलस्यद्रष्टाविश्वामित्रऋषिः अनु क्तत्वान्त्रिष्टुप् छन्दः मण्डलादिष्वाग्नेयमितिपरिभाषयाग्निर्देवता प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसिविनियोगः तथाचसूत्रम्—सोमस्यमातवसंप्रत्यग्निरितित्रीणीति ।