मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १०, ऋक् ६

संहिता

अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्य॑ः ।
म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥

पदपाठः

अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ ।
म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥

सायणभाष्यम्

योयमग्निर्यतोयाभिः स्तुतिरूपाभिर्गीर्भिरुक्थ्यो जायते । उक्थ्ये शब्दः प्रतस्यवाची । अनभितस्त्य उक्थ्य इति तन्नामसु पाठात् । अतिशयेन स्तुत्यो भवतीत्यर्थः । यश्चायमग्निर्महे महते वाजायान्नाय द्रविनाय धनाय च दर्शतो दर्शनीयो भवति शमिममग्निं नो गिरोऽस्माकं स्तुतिरूपास्ता चाचो वर्धन्तु । वर्धयन्तु । पूजयन्त्वित्यर्थः । वर्धन्तु । वृधु वर्धने । अस्माण्णिच् । सघूपधगुणः । छन्दस्युभथेत्यार्धधातुकत्वाण्णिलोपः । झेरन्तादेशः । एरुः । पा. २-४-८६ । इत्युकारः । निघातः । उक्थ्यः । वच परिभाषणे । अस्मात्पातॄतुदिवचिरचीत्यादिना थक् । कित्त्वाद्वचिस्वपीत्यादिना सम्प्रसारणम् । उक्थं शस्त्रम् । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । भवे छन्दसीति यत् । यस्येति लोपः । तित्स्वरितमिति स्वरितः । दर्शतः । भृमृदृशियजीत्यतङ् प्रत्ययः । चित्त्वादन्तोदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः