मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १२, ऋक् १

संहिता

इन्द्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यम् ।
अ॒स्य पा॑तं धि॒येषि॒ता ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् ।
अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥

सायणभाष्यम्

इन्द्रश्चाग्निश्चेन्द्राग्नी हे इन्द्राग्नी देवौ सुतमभिषवादिसंस्कारैः संस्कृतमत एव वरेण्यं वरणीयं सम्भजनियमिमं सोमं प्रति गीर्भिरस्मदीयाभिः स्तुतिरुपाभिर्वाग्भिराहुतौ सन्तौ नभो नभसः स्वर्गस्थानादागतम् । आगच्छतम् । आगत्य च धियास्माभिः क्रियमाणे कर्मणीषिता प्रेरितौ युवामस्य पातम् । इमं सोमं पिबतम् । यद्वा धियास्मदीयया । बुद्ध्येषितौ प्राप्तावस्मद्भक्त्या प्रेरितौ युवाविमं सोमं पिबतम् । इन्द्राग्नी । इन्द्रश्चाग्निश्च द्वन्द्वे घि । पा. २-२-३२ । इत्यग्नशब्दस्य पुर्वनिपाते प्राप्ते अजाद्यदन्तम् । पा. २-२-३३ । इतीन्द्र शब्दस्य पूर्वनिपातः । पादादित्वान्निघातप्रतिषेधः । षाष्ठिक स्वरः । गतम् । गम् लृ सृप् लृ गतौ । बहुलं छन्दसीति शपो लिकि सत्यनुदात्तोपदेशात्यादिना मकारलोपः । निघातः । वरेण्यम् । पृङ् सम्भक्तौ । वृङ् एण्यः । वृषादित्वादाद्युदात्तः । पातम् । पा पाने । सर्वे विधयश्छन्दसि विकल्प्यन्त इति न पिबादेशः । इषिता । इष गतावित्यस्माद्धातोर्निष्ठायांतीषसहेतीडागमः । आगमा अनुदात्ता इतीटोऽनुदात्तत्वात् क्तस्वरः शिष्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११