मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १२, ऋक् ३

संहिता

इन्द्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे ।
ता सोम॑स्ये॒ह तृ॑म्पताम् ॥

पदपाठः

इन्द्र॑म् । अ॒ग्निम् । क॒वि॒ऽछदा॑ । य॒ज्ञस्य॑ । जू॒त्या । वृ॒णे॒ ।
ता । सोम॑स्य । इ॒ह । तृ॒म्प॒ता॒म् ॥

सायणभाष्यम्

अस्य यज्ञस्य साधनभूतस्य सोमस्य जूत्या । जूतिः प्रेरणम् । सोमस्तावद्यजमानं प्रेरयति । साधनमौपलभ्य तत्साध्यक्रतौ यजमानः प्रवर्तत इति हि तस्य प्रेरकत्वम् । तया प्रेरणरूपया जूत्या प्रेरितोऽहं कविच्छदा कवीनां स्तोतॄणामुचितफलप्रदानेनोपच्छन्दकाविन्द्रमग्निं च युवां वृणे । सोमपानर्थमिह कर्मण्यागच्छतमिति सम्भजे । ता आगतौ च ताविन्द्राग्नी इह कर्मणि सोमस्य सोमपानेन तृम्पताम् । तृप्यताम् । इन्द्रम् । इदि परमैश्वर्य इत्यस्माद्धातोर्यज्रेन्द्राग्रेति रन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तत्वम् । कविच्छदा । छदि अपवारणे । अस्मात्क्विप् । सुपां सुलुगिति सुपो डादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । जूत्या । जू इति सौत्रो धातुः । अस्मादुदात्त इत्यनुवृत्तापूतियूतिजूतीत्यादिना निपातनादन्तोदात्तत्वम् । उदात्तयणो हल् पूर्वादिति विभक्तेरुदात्तत्वम् । वृणे । वृङ् सम्भक्तौ । श्नाप्रत्ययः । टत आआत्मनेपदानामिति टेरेत्वम् । निघातः । ता । सुपां सुलुगिति डादेशः । सोमस्य षुञ् अभिषवे । अस्मादर्शिस्तुसुदुसृधृक्षीत्यादिना मन् प्रत्ययः । नित्स्वरः । शृंपताम् । तृप प्रीणने । लोटि मुचादित्वान्नुमागमः निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११