मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १२, ऋक् ४

संहिता

तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता ।
इ॒न्द्रा॒ग्नी वा॑ज॒सात॑मा ॥

पदपाठः

तो॒शा । वृ॒त्र॒ऽहना॑ । हु॒वे॒ । स॒ऽजित्वा॑ना । अप॑राऽजिता ।
इ॒न्द्रा॒ग्नी इति॑ । वा॒ज॒ऽसात॑मा ॥

सायणभाष्यम्

तोशा शत्रूणां बाधकौ वृत्रहणा वृत्रस्य पापस्य हन्तारौ सजित्वाना समान जेतारौ परस्यापेक्षया जयशीलावपराजिता केनाप्यतिरस्कृतौ वाजसातमान्नस्यातितयेन दातारविन्द्राग्नी युवां हुवे । इह कर्मणि सोमपानार्थमहमाह्वयामि । वृत्रहणा । हन हिम्सागत्योः । ब्रह्मभ्रूणवृत्रेषु क्विबिति क्विप् । एकाजुत्तरपदे णः । पा. ८-४-१२ । इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । हुवे । हूयतेर्बहुलं छन्दसीति लुकि सति ह्वः सम्प्रसारणमित्यनुवृत्तौ बहुलं छन्दसीति सम्प्रसारणम् । उवङादेशः । व्यत्ययेनात्मनेपदम् । निघातः । सजित्वाना । जि जये । शीङ् क्रुशिरुहिजिक्षिसृधृभ्यः । उ. ४-११३ । इति क्वनिप् । कित्त्वाद्गुणाभावः । पित्त्वात्तुगागमः । समानस्य छन्दस्यमूर्धेति समानस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपराजिता । नञ्स्मासे तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वे प्राप्ते नोत्तरपदेऽनुदात्तादाविति प्रतिषेधात्समासस्वरः । वाजसातमा । षणु दाने । समाज्जनसनखनक्रमगम इति विट् । विड्वनोरनुनासिकस्यादित्याकारः । अतिशायने तमबिति तमप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११