मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १२, ऋक् ६

संहिता

इन्द्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम् ।
सा॒कमेके॑न॒ कर्म॑णा ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । न॒व॒तिम् । पुरः॑ । दा॒सऽप॑त्नीः । अ॒धू॒नु॒त॒म् ।
सा॒कम् । एके॑न । कर्म॑णा ॥

सायणभाष्यम्

हे इन्द्राग्नी दासपत्नीः । दासयन्त्युपक्षपयन्तीति दासा उपक्षपयितारः शत्रवः । ते पतयः पालकाः यासां ता दासपत्नीः । नवतिं नवतिसंख्याकाः पुर एवं विधाः शत्रूणां पुरीरेकेन कर्मणैकेनैवोद्योगेन युवां साकं सह युगपत् अधूनुतम् । अकंपयतम् । ताविन्द्राग्नी आह्वयामीति शेषः । नवतिम् । नवानां दशतां नवभावः तिश्च प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । दासपत्नीः । दसु उपक्षये । दासयतीतिदासः । पचाद्यजन्तः । चित्त्वादन्तोदात्तः । ते पतयो यासां नित्यं सपत्न्यादिषु दासाच्च । पा. ४-१-३५-१ । इत्युक्तत्वाद्विभाषा सपूर्वस्येति ङिप् । इकारस्य नकारः । बहुव्रीहौ पूर्वपप्रकृतिस्वरत्वम् । अधूनुतम् । धूञ् कम्पने । लङ् स्वादिभ्यः श्नुः । निघातः । एकेन । इण् गतौ । इण्भीकापाशल्यतिमर्चिभ्यः कन्निति कन् । नित्त्वादाद्युदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२