मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २८, ऋक् ३

संहिता

अग्ने॑ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ॑ह्न्यम् ।
सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ॥

पदपाठः

अग्ने॑ । वी॒हि । पु॒रो॒ळाश॑म् । आऽहु॑तम् । ति॒रःऽअ॑ह्न्यम् ।
सह॑सः । सू॒नुः । अ॒सि॒ । अ॒ध्व॒रे । हि॒तः ॥

सायणभाष्यम्

हे अग्ने तिरोअह्न्यं अह्नि तिरोहिते सत्याहुतमा समन्ताद्धुतं पुरोडाशं पुरोडाशाख्यं हविर्वीहि । भक्षय । अध्वरेऽस्मिन्न्यज्ञे सहसः सूनुर्बलस्य पुत्रस्त्वं हितोऽसि । अवहनीयादिस्थानेष्वस्माभिर्निहितोऽसि । तस्माद्वीहीति शेषः ॥ वीहिवी कान्तिगथादिषु । लोटि रूपम् । हेरपित्त्वादन्तोदात्तत्वम् । आहुतम् । जुहोतेः कर्मणि क्ते गतिरनन्तर इत् गतेः प्रकृतिस्वरत्वम् । तिरोअह्न्यम् । अह्नि भवमह्न्यम् । भवे छन्दसिति यत् । तिरोभूतमह्न्यं यस्मिन् काले स तिरो अह्न्यः । रात्रिकाल इत्यर्थः । कालाध्वनोरत्यन्तसंयोग इति द्वितीया । प्रकृत्यान्तः पादमित्येङः । प्रकृतिभावह् । बहुव्रीहौ पूर्वपदस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१