मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २, ऋक् २

संहिता

इ॒ह त्वं सू॑नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ॑ अ॒न्तर॑ग्ने ।
दू॒त ई॑यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्राँश्च॑ ॥

पदपाठः

इ॒ह । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । जा॒तः । जा॒तान् । उ॒भया॑न् । अ॒न्तः । अ॒ग्ने॒ ।
दू॒तः । ई॒य॒से॒ । यु॒यु॒जा॒नः । ऋ॒ष्व॒ । ऋ॒जु॒ऽमु॒ष्कान् । वृष॑णः । शु॒क्रान् । च॒ ॥

सायणभाष्यम्

हे सहसः सूनो बलस्य पुत्राग्ने अद्यास्मिन्दिवसे नोऽस्मदीय इह कर्मणि जात आधानपवमानेश्टिभिः संस्कृतस्त्वं जातानुत्पन्नानुभयान्देवमनुष्यानन्तस्तेषामुभयेशां मध्ये दूतो हवींषि देवान्प्रापयितुमीयसे । गच्छसि । किं कुर्वन् । हे ऋष्व दर्शनीयाग्ने रुजुमुश्कान् । मुष्कशब्देन मांसलोऽभिधीऒयते । ऋजवः प्रसाधकाः । ऋजुवश्च ते मुष्काश्चेत्यृजुमुष्काः । तान्वृषणः रेतः सेचनसमर्थान् शुक्रान्दीप्यमानानश्वांश्च युयुजानः स्वरथे योजयन्नियसे । यद्वा । ऋष्व महन्नग्ने युयुजानो हविर्वहने नियुज्यमानस्त्वं वृषणो हविः सेवनसमर्थ्यान्यजमानान् दीप्तान्देवांश्चेयसे । सूनो सहसः । परमपि छन्दसीति सहसः पाराङ्गद्भावात् द्वयोः सर्वानुदात्तत्वम् । ईयसे । ईङ् गतौ । दिवादिः । निघातः । युयुजानः । युजेः वर्तमाने लिटि कानचि रूपम् । ऋष्व । संहितायामृत्यक इति प्रकृतिभावः । ऋजुमुश्कान् । समासस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६