मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १०, ऋक् १

संहिता

अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒ः क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् ।
ऋ॒ध्यामा॑ त॒ ओहै॑ः ॥

पदपाठः

अग्ने॑ । तम् । अ॒द्य । अश्व॑म् । न । स्तोमैः॑ । क्रतु॑म् । न । भ॒द्रम् । हृ॒दि॒ऽस्पृश॑म् ।
ऋ॒ध्याम॑ । ते॒ । ओहैः॑ ॥

सायणभाष्यम्

अग्ने तमद्येत्यष्टर्चं दशमं सूक्तं वामदेवस्यार्षमाग्नेयम् । तथा चानुक्रमणिका । अग्ने तमद्य पदपङ्क्तं पञ्चमी महापदपङ्क्तिरन्त्योष्णिक् चतुर्थी षष्ठुपान्त्या वा सप्तम्याः पञ्चकौ मुख्यौ तृतीयः सप्तको नवकश्चाष्टम्याः पञ्चम्याः पञ्चकः पादश्चतुष्कः सप्तकस्त्रैष्टुभश्चेति । इदं कृत्स्नमपि सूक्तं पदकङ्कि छन्दस्कं पञ्चकाश्चत्वारः षट्कश्चै कश्चतुर्थश्चतुष्को वा पदपङ्क्तिरित्युक्तलक्षणोपेतत्वात् । पञ्चमी तव स्वादिष्ठेत्येषा महापदपङ्क्तिः पञ्च पञ्चकाः षट्कश्चैक इति लक्षनसद्भावात् । अन्त्या शिवा नः सख्येत्येषोष्णिक्छन्दस्का । चतुर्थीषष्ठी सप्तम्य अभिष्टे अद्य घृतं न पूतं कृतं चिद्धि ष्मेत्येतास्तिस्र उषिणिहः । पदपङ्क्त्यो वा । अत्र सप्तम्यष्टम्योः पदपङ्क्त्युष्णिहोः परिभाषोक्तपादविच्छेदापवादाय प्रकारान्तरेण विच्छेदः कृतः । दशमेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च । अग्ने तमद्याश्वं न स्तोमैरित्याज्यम् । आ. ८-१२ । इति । पिण्डपितृयज्ञेऽग्ने तमद्येत्यनयाग्निं प्रत्यागच्छेत् । सूत्रितं च । अग्निं प्रत्येयादग्ने तमद्याश्वं न स्तोमैरिति । आ. २-७ । इति । पौनराधेयिक्यां स्विष्टकृत्येषैव याज्या । सुत्रितं च । अग्ने तमद्याश्वं न स्तोमैरिति संयाज्ये । आ. २-८ । इति ॥

हे अग्ने अद्यास्मिन्नहनि वयमृत्विगादय ओहैरिन्द्रादिप्रापकैः स्तोमैः स्तोत्रसमुहैस्तं प्रसिद्धं त्वामृध्याम । समर्धयामः । कीदृशं त्वाम् । अश्वं न वोढारमश्वमिव तथा हविषो वाहकं क्रतुम् न कर्तारमिव । उपकर्तारमित्यर्थः । तथा भद्रं भजनीयं हृदिस्पृशं हृदयंगमम् । आतिशयेन प्रियमित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०