मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १०, ऋक् २

संहिता

अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः ।
र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥

पदपाठः

अध॑ । हि । अ॒ग्ने॒ । क्रतोः॑ । भ॒द्रस्य॑ । दक्ष॑स्य । सा॒धोः ।
र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । ब॒भूथ॑ ॥

सायणभाष्यम्

पौनराधेयिक्यामिष्टौ प्रधानस्याधा ह्यग्ने इत्येषानुवाक्या । एभिर्नो अर्कैरिति तस्यां स्विष्टकृतोऽनुवाक्या । अभिष्टे अद्येति प्रधानस्य याज्या । सुत्रितं च । अधा ह्यग्ने क्रतोर्भद्रस्याभिष्ठे अद्य गीर्भिर्गृणन्त एभिर्नो अर्कैः । आ. २-८ । इति ॥

अधा हि इदानीमेव हे अग्ने त्वं क्रतोरस्मदीयस्य यागस्य रथीर्नेता बभूथ । भवसि । छन्दसि लुङ्लङ्लुट इति भवतेर्वर्तमानेऽर्थे लिटि सिपस्थल् । आर्ध धातुकस्य्ड्वलादेरितीडागमे प्राप्ते बभूथाततंथेति निपातनादिडभावः । कीदृशस्य यागस्य । भद्रस्य भजनीयस्य दक्षस्य प्रवृद्धस्य साधोरभीष्टफलानां साधकस्य ऋतस्य सत्यभूतस्य बृहतो महतः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०