मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १०, ऋक् ३

संहिता

ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१॒॑र्ण ज्योति॑ः ।
अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥

पदपाठः

ए॒भिः । नः॒ । अ॒र्कैः । भव॑ । नः॒ । अ॒र्वाङ् । स्वः॑ । न । ज्योतिः॑ ।
अग्ने॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ॥

सायणभाष्यम्

हे अग्ने ज्योतिर्ज्योतिष्मान् स्वर्ण सूर्य इव तथा विश्वेभिर्विश्वैः समस्तैरनीकैस्तेजोभिः सुमनाः शोभनमनस्कस्त्वं नोऽस्मदीयैरेभिरेतैरर्कैरर्चनीयैः स्तोत्रैर्नोऽस्माकमर्वाङभिमुखो भव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०