मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १७, ऋक् १५

संहिता

असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥

पदपाठः

असि॑क्न्याम् । यज॑मानः । न । होता॑ ॥

सायणभाष्यम्

एकपदेयमृक् पूर्वर्चा सह दृष्टान्तत्वेन सम्बध्यते । असिक्न्यां रात्रौ यजमानो न यजमान इव होता योतारमाह्वातारमग्निम् । द्वितीयार्थे प्रथमा । सोमेनासिञ्चति तद्वन्मेघ इन्द्रमासिञ्चतीत्यर्थः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३