मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २६, ऋक् १

संहिता

अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्र॑ः ।
अ॒हं कुत्स॑मार्जुने॒यं न्यृ॑ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ॥

पदपाठः

अ॒हम् । मनुः॑ । अ॒भ॒व॒म् । सूर्यः॑ । च॒ । अ॒हम् । क॒क्षीवा॑न् । ऋषिः॑ । अ॒स्मि॒ । विप्रः॑ ।
अ॒हम् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । नि । ऋ॒ञ्जे॒ । अ॒हम् । क॒विः । उ॒शना॑ । पश्य॑त । मा॒ ॥

सायणभाष्यम्

अहं मनुरिति सप्तर्चं पञ्चमं सूक्तं वामदेवस्यार्षम् । आत्रेयमनुक्रमणीका । अहं मनुः सप्ताद्याभिस्तिसृभिरिन्द्रमिवात्मानमृषिस्तुष्टावेन्द्रो वात्मानं परा नवाष्टौ वा श्येनस्तुतिरिति । अत्राहं मनुरित्याद्याभिस्तिसृभिरात्मानमिन्द्ररूपेण वामदेवः स्तुतवान् । यद्वा । इन्द्र एवात्मनं स्तुतवान् । अतो वामदेववाक्यपक्षे वामदेव ऋषिरिन्द्रो देवता । इन्द्रवाक्यपक्षे त्विन्द्र ऋशिः परमात्मा देवता । त्रिष्टुप् छन्दः । अवशिष्टानां वामदेव ऋषिः । अवशिष्टाभिरुत्तरसूक्तेन च सुपर्णात्मना ब्रह्म स्तूयते । अतस्तासां प्राब्रह्म देवता । श्येननाम्न्येकाहे माध्यन्दिनसवने मरुत्वतीयशस्त्र इदं सूक्तम् । सूत्रितं च । श्येनाजिराभ्यामभिचरन्यजेताहं मनुर्गर्भे नुसन् । आ. ९-७ । इति ॥

इदमादिमन्त्रत्रयेण गर्भे वसन्वामदेव उत्पन्नतत्त्वज्ञानः सन् सार्वात्म्यं स्वानुभवं मन्वादिरूपेण प्रदर्शयन्नाह । अहं वामदेव इन्द्रो वा मनुरभवम् । सर्वस्य मन्ता प्रजापतिरस्मि । अहमेव सूर्यश्च सर्वस्य प्रेरकः सविता चास्मि । विप्रो मेधावी कक्षीवान् दीर्घतमसः पुत्र एतत्संज्ञक ऋशिरप्यहमेवास्मि । अर्जुनेयमर्जुन्याः पुत्रं कुत्समेतन्नामकमृषिमहमेव न्यृञ्जे । नितरां प्रसाधयामि । कविः क्रान्तदर्श्युशनैतदाख्य ऋशिरहमेवास्मि । उक्तमुपलक्शणम् । परमार्थदृष्ट्या कृत्समप्यहमेवास्मीत्यर्थः । हे जना मा मां सर्वात्मकं पश्यत । यूयमप्येवमेव सस्वरूपमनुभवतेत्युक्तं भवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५