मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २६, ऋक् २

संहिता

अ॒हं भूमि॑मददा॒मार्या॑या॒हं वृ॒ष्टिं दा॒शुषे॒ मर्त्या॑य ।
अ॒हम॒पो अ॑नयं वावशा॒ना मम॑ दे॒वासो॒ अनु॒ केत॑मायन् ॥

पदपाठः

अ॒हम् । भूमि॑म् । अ॒द॒दा॒म् । आर्या॑य । अ॒हम् । वृ॒ष्टिम् । दा॒शुषे॑ । मर्त्या॑य ।
अ॒हम् । अ॒पः । अ॒न॒य॒म् । वा॒व॒शा॒नाः । मम॑ । दे॒वासः॑ । अनु॑ । केत॑म् । आ॒य॒न् ॥

सायणभाष्यम्

अहं वामदेव इन्द्रो वा आर्याय मनवे भूमिं पृथ्वीमददाम् । दत्तवानस्मि । दाशुषे हविर्दत्तवते मर्त्याय मनुष्याय यजमानाय वृष्टिं सस्याद्यभिव्रुद्ध्यर्थं वृष्टिलक्शणमुदकमहमेवाददाम् । किञ्च अहं वावशानाः शब्दायमाना अप उदकान्यनयम् । सर्वमपि प्रदेशमगमयम् । देवासो वह्न्याअदयो देवा मम केतं मदीयं सङ्कल्पमन्वायन् । अनुयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५