मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २६, ऋक् ३

संहिता

अ॒हं पुरो॑ मन्दसा॒नो व्यै॑रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य ।
श॒त॒त॒मं वे॒श्यं॑ स॒र्वता॑ता॒ दिवो॑दासमतिथि॒ग्वं यदाव॑म् ॥

पदपाठः

अ॒हम् । पुरः॑ । म॒न्द॒सा॒नः । वि । ऐ॒र॒म् । नव॑ । सा॒कम् । न॒व॒तीः । शम्ब॑रस्य ।
श॒त॒ऽत॒मम् । वे॒श्य॑म् । स॒र्वऽता॑ता । दिवः॑ऽदासम् । अ॒ति॒थि॒ऽग्वम् । यत् । आव॑म् ॥

सायणभाष्यम्

अहं वामदेव इन्द्रो वा मन्दसानः सोमेन माद्यन्नव नवसंख्याका नवतीर्नवतिसंख्याकाश्च शम्बरस्यैतत्नामकस्यासुरस्य संबन्धीनि पुरः पुराणि साकं युगपदेव व्यैरम् । अध्वंसयम् । शततमं शतसंख्यापूरणं पुरं वेश्यं दिवोदासनाम्ने प्रवेशार्हमकरवम् । सर्वताता सर्वतातौ यज्ञेऽतिथिग्वमतिथीनामभिगन्तारं दिवोदासं दिवोदासनामकं राजर्षिं यदावं अपालयम् । तदा पुरो व्यैरमिति पूर्वेण सम्बन्धः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५