मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २७, ऋक् ५

संहिता

अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमन्ध॑ः ।
अ॒ध्व॒र्युभि॒ः प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥

पदपाठः

अध॑ । श्वे॒तम् । क॒लश॑म् । गोभिः॑ । अ॒क्तम् । आ॒ऽपि॒प्या॒नम् । म॒घऽवा॑ । शु॒क्रम् । अन्धः॑ ।
अ॒ध्व॒र्युऽभिः॑ । प्रऽय॑तम् । मध्वः॑ । अग्र॑म् । इन्द्रः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै । शूरः॑ । मदा॑य । प्रति॑ । ध॒त् । पिब॑ध्यै ॥

सायणभाष्यम्

अधाधुना शूरो विक्रान्तो मघवा धनवानिन्द्रः श्वेतं शुभ्रं कलशं कलशे पात्रे स्थितं गोभिर्गव्येन पयसाक्तं सिक्तमापिप्यानमाप्याययन्तं शुक्रं सारोपेतमध्वर्युभिः प्रयतं दत्तमन्धः सोमलक्षनमन्नं मध्वो मधुरस्य सोमरसस्याग्रमग्रे मदाय मदार्थं पिबध्यै पातुं प्रति धत् । प्रतिदधातु । पुनरुक्तिरादरार्था ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६