मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् २८, ऋक् ४

संहिता

विश्व॑स्मात्सीमध॒माँ इ॑न्द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः ।
अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि॑न्देथा॒मप॑चितिं॒ वध॑त्रैः ॥

पदपाठः

विश्व॑स्मात् । सी॒म् । अ॒ध॒मान् । इ॒न्द्र॒ । दस्यू॑न् । विशः॑ । दासीः॑ । अ॒कृ॒णोः॒ । अ॒प्र॒ऽश॒स्ताः ।
अबा॑धेथाम् । अमृ॑णतम् । नि । शत्रू॑न् । अवि॑न्देथाम् । अप॑ऽचितिम् । वध॑त्रैः ॥

सायणभाष्यम्

हे इन्द्र तवम् । सीमेनान्दस्यून्विश्वस्मात्सर्वस्माध्गुणादधमान् हीनानकृणोः । अकरोः । किञ्च दासीः कर्महीना विशो मानुषीः प्रजा अप्रशस्ता गर्हिता अकृणोः । हे इन्द्रासोमौ युवां शत्रूनबाधेथाम् । न्यमृणतम् । नितरां हिंसितवन्तौ । अपि च वधत्रैस्तेषां शत्रूणां प्रहारैरपिचितिं पूजां जनेभ्योऽविन्देथाम् । अलभेथां ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७