मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् ३०, ऋक् १०

संहिता

अपो॒षा अन॑सः सर॒त्सम्पि॑ष्टा॒दह॑ बि॒भ्युषी॑ ।
नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥

पदपाठः

अप॑ । उ॒षाः । अन॑सः । सर॑त् । सम्ऽपि॑ष्टात् । अह॑ । बि॒भ्युषी॑ ।
नि । यत् । सी॒म् । शि॒श्नथ॑त् । वृषा॑ ॥

सायणभाष्यम्

वृषा कामानां वर्षितेन्द्रो यद्यदा सीमेतदुषः सम्बन्धि शकटं नि शिश्नथत् । न्यवधीत् । तदोषा उषोदेवता बिभ्युषीन्द्रसकाशाद्भीता सती संपिष्टादिन्द्रेण सञ्चूर्णितादनसः शकटादप सरत् । अपासरत् । अपजगाम । अहेति पूराः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०